|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.153. अध्यायः 153
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति बलवति रिपौ मोहाद्वैरमुत्पादितवता कर्तव्यविषये निदर्शनतया शाल्मलिचरितकथनोपक्रमः॥ 1॥ हिमवति पर्वते महाशाल्मलिं दृष्टवता नारदेन तद्वर्णनम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-153-0x(5812)(71180)
बलिनः प्रत्यमित्रस्य नित्यमासन्नवर्तिनः।
उण्कारापकाराभ्यां समर्थस्योद्यतस्य च॥ 12-153-1(71181)
मोहाद्विकत्थनामात्रैरसारोऽल्पबलो लघुः।
वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह॥ 12-153-2(71182)
आत्मनो बलमास्थाय कथं वर्तेत मानवः।
आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणकाम्यया॥ 12-153-3(71183)
भीष्म उवाच। 12-153-4x(5813)
अत्राप्युदाहन्तीममितिहासं पुरातनम्।
संवादं भरतश्रेष्ठ शाल्मलेः पवनस्य च॥ 12-153-4(71184)
हिमवन्तं समासाद्य महानासीद्वनस्पतिः।
वर्षपूगाभिसंवृद्धः शाखामूलपलाशवान्॥ 12-153-5(71185)
तत्र स्म मत्तमातङ्गा घर्मार्ताः श्रमकर्शिताः।
विश्राम्यन्ति महाबाहो तथाऽन्या मृगजातयः॥ 12-153-6(71186)
नल्वमांत्रपरीणाहो घनच्छायो वनस्पतिः।
शुकशारिकसंघुष्टः पुष्पवान्फलवानपि॥ 12-153-7(71187)
सार्थका वणिजश्चापि तापसाश्च वनौकसः।
वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे॥ 12-153-8(71188)
तस्य ता विपुलाः शाखा दृष्ट्वा स्कन्धं च सर्वशः।
अभिगम्याब्रवीदेनं नारदो भरतर्षभ॥ 12-153-9(71189)
अहो नु रमणीयस्त्वमहो चासि मनोहरः।
प्रीयामहे त्वया नित्यं तरुप्रवर शाल्मके॥ 12-153-10(71190)
सदैव शकुनास्तात मृगाश्चाथ तथा गजाः।
वसन्ति तव संहृष्टा मनोहरतरास्तथा॥ 12-153-11(71191)
तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा।
न वै प्रभग्नान्पश्यामि मारुतेन कथंचन॥ 12-153-12(71192)
किंनु ते पवनस्तात प्रीतिमानथवा सुहृत्।
त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम्॥ 12-153-13(71193)
भगवान्पवनः स्थानाद्वृक्षानुच्चावचानपि।
पर्वतानां च शिखराण्याचालयति वेगवान्॥ 12-153-14(71194)
शोषयत्येव पातालं वहन्गन्धवहः शुचिः।
सरांसि सरितश्चैव सागरांश्च तथैव च॥ 12-153-15(71195)
संरक्षति त्वां पवनः सखित्वेन न संशयः।
तस्मात्त्वं बहुशाखोऽपि पर्णवान्पुष्पवानपि॥ 12-153-16(71196)
इदं च रमणीयं ते प्रतिभाति वनस्पते।
य इमे विहगास्तात रमन्ते मुदितास्त्वयि॥ 12-153-17(71197)
एषां पृथक्समस्तानां श्रूयते मधुरस्वरः।
पुष्पसंमोदने काले वाशन्ते हरियूथपाः॥ 12-153-18(71198)
तथेमे गर्जिता नागाः स्वयूथगणशोभिताः।
घर्मार्तास्त्वां समासाद्य सुखं विन्दति शाल्मके। 12-153-19(71199)
तथैव मृगजातीभिरन्याभिरभिशोभसे।
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम्॥ 12-153-20(71200)
ब्राह्मणैश्च तपः सिद्धैस्तापसैः श्रमणैस्तथा।
त्रिविष्टपसमं मन्ये तवायतनमेव हि॥ ॥ 12-153-21(71201)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि त्रिपञ्चाशदधिकशततमोऽध्यायः॥ 153॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-153-7 शुककोकिलसंधुष्ट इति ध. पाठः। नल्वः हस्तानां शतचतुष्टयम्। परीणाहः स्थूलत्वं वैपुल्यमितियावत्॥ 12-153-14 प्रवाति च वनस्थानां वृक्षाणां च वनान्यपि। पर्वतानां च शिखराण्याका लयति वेगवान्। इति ट. ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|